Sukta 1.161
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् । सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥
इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम् । सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥
idám udakáṃ pibatéti abravītana idáṃ vā ghā pibatā muñja-nejánam | saudhánvanā yádi tán néva háryatha tṛtī́ye ghā sávane mādayādhvai ||
“Drink this water,” so they said; “yes, drink this indeed, the cleanser made of muñja.” O Saudhanvanas (Rbhus), if you do not delight in that, then in the third pressing you shall become intoxicated—entering the rapture that ripens the work.
इ॒दम् । उ॒द॒कम् । पि॒ब॒त॒ । इति॑ । अ॒ब्र॒वी॒त॒न॒ । इ॒दम् । वा॒ । घ॒ । पि॒ब॒त॒ । मु॒ञ्ज॒ऽनेज॑नम् । सौध॑न्वनाः । यदि॑ । तत् । नऽइ॑व । हर्य॑थ । तृ॒तीये॑ । घ॒ । सव॑ने । मा॒द॒या॒ध्वै॒ ॥इदम् । उदकम् । पिबत । इति । अब्रवीतन । इदम् । वा । घ । पिबत । मुञ्जनेजनम् । सौधन्वनाः । यदि । तत् । नइव । हर्यथ । तृतीये । घ । सवने । मादयाध्वै ॥idam | udakam | pibata | iti | abravītana | idam | vā | gha | pibata | muñja-nejanam | saudhanvanāḥ | yadi | tat | na-iva | haryatha | tṛtīye | gha | savane | mādayādhvai