Sukta 1.160
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा । वि यो ममे रजसी सुक्रतूययाजरेभिः स्कम्भनेभिः समानृचे ॥
अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश॑म्भुवा । वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भि॒: स्कम्भ॑नेभि॒: समा॑नृचे ॥
ayáṃ devā́nām apásām apástamo yó jajā́na ródasī viśváśambhuvā́ | ví yó mamé rájasī sukratūyáyā́jarébhiḥ skámbhanebhiḥ sám ānṛce ||
This is the most puissant among the gods in works—the one who brought forth the two worlds for the universal good. He measured out the two mid-regions by a right and luminous intelligence; with undecaying supports he set them firm in a perfect harmony.
अ॒यम् । दे॒वाना॑म् । अ॒पसा॑म् । अ॒पःऽत॑मः । यः । ज॒जान॑ । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा । वि । यः । म॒मे । रज॑सी॒ इति॑ । सु॒क्र॒तु॒ऽयया॑ । अ॒जरे॑भिः । स्कम्भ॑नेभिः । सम् । आ॒नृचे ॥अयम् । देवानाम् । अपसाम् । अपःतमः । यः । जजान । रोदसी इति । विश्वशम्भुवा । वि । यः । ममे । रजसी इति । सुक्रतुयया । अजरेभिः । स्कम्भनेभिः । सम् । आनृचे ॥ayam | devānām | apasām | apaḥ-tamaḥ | yaḥ | jajāna | rodasī iti | viśva-śambhuvā | vi | yaḥ | mame | rajasī iti | sukratu-yayā | ajarebhiḥ | skambhanebhiḥ | sam | ānṛce