Sukta 1.160
ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् । येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम् ॥
ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रव॑: क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् । येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतम् ॥
té no gṛṇāné mahinī́ máhi śrávaḥ kṣatráṃ dyāvāpṛthivī dhāsatho bṛhát | yénā́bhi kṛṣṭī́s tátanāma viśvā́hā panā́yyam ójo asmē sám invatam ||
You two, as we hymn you, O mighty ones, establish for us the vast greatness—wide fame and kingly power, O Heaven and Earth. With which you spread out the peoples always, do you set that admirable force in us and make it grow together in our being.
ते । नः॒ । गृ॒णा॒ने इति॑ । म॒हि॒नी॒ इति॑ । महि॑ । श्रवः॑ । क्ष॒त्रम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒स॒थः॒ । बृ॒हत् । येन॑ । अ॒भि । कृ॒ष्टीः । त॒तना॑म । वि॒श्वहा॑ । प॒नाय्य॑म् । ओजः॑ । अ॒स्मे इति॑ । सम् । इ॒न्व॒त॒म् ॥ते । नः । गृणाने इति । महिनी इति । महि । श्रवः । क्षत्रम् । द्यावापृथिवी इति । धासथः । बृहत् । येन । अभि । कृष्टीः । ततनाम । विश्वहा । पनाय्यम् । ओजः । अस्मे इति । सम् । इन्वतम् ॥te | naḥ | gṛṇāne iti | mahinī iti | mahi | śravaḥ | kṣatram | dyāvāpṛthivī iti | dhāsathaḥ | bṛhat | yena | abhi | kṛṣṭīḥ | tatanāma | viśvahā | panāyyam | ojaḥ | asme iti | sam | invatam