Sukta 1.160
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः । सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥
उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः । सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥
uru-vyácasā mahinī́ asaścátā pitā́ mātā́ ca bhúvanāni rakṣataḥ | su-dhṛ́ṣṭame vapuṣyé na ródasī pitā́ yát sīm abhí rū́pair avā́sayat ||
Wide in extension, the two great ones, never failing, the Father and the Mother guard the worlds. Strong-set in beauty are the two firm realms, when the Father has made them dwell by forms all around.
उ॒रु॒ऽव्यच॑सा । म॒हिनी॒ इति॑ । अ॒स॒श्चता॑ । पि॒ता । मा॒ता । च॒ । भुव॑नानि । र॒क्ष॒तः॒ । सु॒धृष्ट॑मे॒ इति॑ सु॒ऽधृष्ट॑मे । वपु॒ष्ये॒ इति॑ । न । रोद॑सी॒ इति॑ । पि॒ता । यत् । सी॒म् । अ॒भि । रू॒पैः । अवा॑सयत् ॥उरुव्यचसा । महिनी इति । असश्चता । पिता । माता । च । भुवनानि । रक्षतः । सुधृष्टमे इति सुधृष्टमे । वपुष्ये इति । न । रोदसी इति । पिता । यत् । सीम् । अभि । रूपैः । अवासयत् ॥uru-vyacasā | mahinī iti | asaścatā | pitā | mātā | ca | bhuvanāni | rakṣataḥ | sudhṛṣṭameitisu-dhṛṣṭame | vapuṣye iti | na | rodasī iti | pitā | yat | sīm | abhi | rūpaiḥ | avāsayat