Sukta 1.160
ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी । सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥
ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी । सु॒जन्म॑नी धि॒षणे॑ अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्य॒: शुचि॑: ॥
té hí dyāvā-pṛthivī́ viśvá-śambhuvau ṛtā́-varī rájaso dhārayát-kavī | su-jánmanī dhiṣáṇe antár īyate devó devī́ dhármaṇā sū́ryaḥ śúciḥ ||
For Heaven and Earth are indeed universal bringers of peace, two seer-powers upholding the mid-regions by the Truth. Between them moves the pure Sun by the law—god and goddess as the two well-born seats of understanding.
ते इति॑ । हि । द्यावा॑पृथि॒वी इति॑ । वि॒श्वऽश॑म्भुवा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । रज॑सः । धा॒र॒यत्क॑वी॒ इति॑ धा॒र॒यत्ऽक॑वी । सु॒जन्म॑नी॒ इति॑ सु॒ऽजन्म॑नी । धि॒षणे॒ इति॑ । अ॒न्तः । ई॒य॒ते॒ । दे॒वः । दे॒वी इति॑ । धर्म॑णा । सूर्यः॑ । शुचिः॑ ॥ते इति । हि । द्यावापृथिवी इति । विश्वशम्भुवा । ऋतवरी इत्यृतवरी । रजसः । धारयत्कवी इति धारयत्कवी । सुजन्मनी इति सुजन्मनी । धिषणे इति । अन्तः । ईयते । देवः । देवी इति । धर्मणा । सूर्यः । शुचिः ॥te iti | hi | dyāvāpṛthivī iti | viśva-śambhuvā | ṛta-varī ity ṛta-varī | rajasaḥ | dhārayatkavī itidhārayat-kavī | sujanmanī itisu-janmanī | dhiṣaṇeiti | antaḥ | īyate | devaḥ | devī iti | dharmaṇā | sūryaḥ | śuciḥ