Sukta 1.16
इमा धाना घृतस्नुवो हरी इहोप वक्षतः । इन्द्रं सुखतमे रथे ॥
इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः । इन्द्रं॑ सु॒खत॑मे॒ रथे॑ ॥
imā́ dhānā́ ghṛtasnúvo hárī ihópa vakṣataḥ | índraṃ sukhátame ráthe ||
These grains, dripping with clarified delight, O two tawny powers, bring here; bring Indra on the most blissful chariot (of the inner journey).
इ॒माः । धा॒नाः । घृ॒त॒ऽस्नुवः॑ । हरी॒ इति॑ । इ॒ह । उप॑ । व॒क्ष॒तः॒ । इन्द्र॑म् । सु॒खऽत॑मे । रथे॑ ॥इमाः । धानाः । घृतस्नुवः । हरी इति । इह । उप । वक्षतः । इन्द्रम् । सुखतमे । रथे ॥imāḥ | dhānāḥ | ghṛta-snuvaḥ | harī iti | iha | upa | vakṣataḥ | indram | sukha-tame | rathe