Sukta 1.16
आ त्वा वहन्तु हरयो वृषणं सोमपीतये । इन्द्र त्वा सूरचक्षसः ॥
आ त्वा॑ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये । इन्द्र॑ त्वा॒ सूर॑चक्षसः ॥
ā́ tvā vahantu háryo vṛ́ṣaṇaṃ sómapītaye | índra tvā sū́racakṣasaḥ ||
May the tawny powers (thy steeds) bring thee here, O Indra the strong, for the drinking of Soma; thee the seers of luminous vision draw near and call.
आ । त्वा॒ । व॒ह॒न्तु॒ । हर॑यः । वृष॑णम् । सोम॑ऽपीतये । इन्द्र॑ । त्वा॒ । सूर॑ऽचक्षसः ॥आ । त्वा । वहन्तु । हरयः । वृषणम् । सोमपीतये । इन्द्र । त्वा । सूरचक्षसः ॥ā | tvā | vahantu | harayaḥ | vṛṣaṇam | soma-pītaye | indra | tvā | sūra-cakṣasaḥ