Sukta 1.159
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥
ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा । नव्यं॑नव्यं॒ तन्तु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वय॑: सुदी॒तय॑: ॥
té māyíno mamire su-prá-cetasā jāmī́ sáyonī mithunā́ sam-okasā́ | návyaṃ-navyaṃ tántum ā́ tanvate diví samudré ántaḥ kaváyaḥ su-dītáyaḥ ||
Those two, masters of formative power, measured out with luminous awareness—kin, of one womb, a paired unity in one home. Ever anew they stretch the thread of becoming, in heaven and within the ocean-depth; the seers, brightly kindled, weave the worlds.
ते । मा॒यिनः॑ । म॒मि॒रे॒ । सु॒ऽप्रचे॑तसः । जा॒मी इति॑ । सयो॑नी॒ इति॒ सऽयो॑नी । मि॒थु॒ना । सम्ऽओ॑कसा । नव्य॑म्ऽनव्यम् । तन्तु॑म् । आ । त॒न्व॒ते । दि॒वि । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । सु॒ऽदी॒तयः॑ ॥ते । मायिनः । ममिरे । सुप्रचेतसः । जामी इति । सयोनी इति सयोनी । मिथुना । सम्ओकसा । नव्यम्नव्यम् । तन्तुम् । आ । तन्वते । दिवि । समुद्रे । अन्तरिति । कवयः । सुदीतयः ॥te | māyinaḥ | mamire | su-pracetasaḥ | jāmī iti | sayonī itisa-yonī | mithunā | sam-okasā | navyam-navyam | tantum | ā | tanvate | divi | samudre | antariti | kavayaḥ | su-dītayaḥ