Sukta 1.159
तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे । अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥
तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे । अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म् ॥
tád rā́dho adyá savitúr váreṇyaṃ vayáṃ devásya pra-savé manāmahe | asmábhyaṃ dyāvā-pṛthivī su-cetúnā rayíṃ dhattaṃ vásu-mantaṃ śatá-gvinam ||
That adorable plenitude of Savitar, today we hold in mind in the divine impulsion. For us, O Heaven and Earth, by your clear guidance place the rayi—rich in substance, hundred-fold in its increase.
तत् । राधः॑ । अ॒द्य । स॒वि॒तुः । वरे॑ण्यम् । व॒यम् । दे॒वस्य॑ । प्र॒ऽस॒वे । म॒ना॒म॒हे॒ । अ॒स्मभ्य॑म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽचे॒तुना॑ । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । श॒त॒ऽग्विन॑म् ॥तत् । राधः । अद्य । सवितुः । वरेण्यम् । वयम् । देवस्य । प्रसवे । मनामहे । अस्मभ्यम् । द्यावापृथिवी इति । सुचेतुना । रयिम् । धत्तम् । वसुमन्तम् । शतग्विनम् ॥tat | rādhaḥ | adya | savituḥ | vareṇyam | vayam | devasya | pra-save | manāmahe | asmabhyam | dyāvāpṛthivī iti | su-cetunā | rayim | dhattam | vasu-mantam | śata-gvinam