Sukta 1.159
ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये । स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥
ते सू॒नव॒: स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये । स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥
té sū́naváḥ svápasaḥ su-dáṃsaso mahī́ jajñur mātárā pū́rva-cittaye | sthātúś ca satyáṃ jágatas ca dhármaṇi putrásya pā́thaḥ padám ádvayāvinaḥ ||
Those sons, of good works and beautiful powers, were born great from the two Mothers for the primal awareness. They established the Truth of what stands and the law of what moves; for the Child they opened the path, the step of the undivided seer.
ते । सू॒नवः॑ । सु॒ऽअप॑सः । सु॒ऽदंस॑सः । म॒ही इति॑ । ज॒ज्ञुः॒ । मा॒तरा॑ । पू॒र्वऽचि॑त्तये । स्था॒तुः । च॒ । स॒त्यम् । जग॑तः । च॒ । धर्म॑णि । पु॒त्रस्य॑ । पाथः । प॒दम् । अद्व॑याविनः ॥ते । सूनवः । सुअपसः । सुदंससः । मही इति । जज्ञुः । मातरा । पूर्वचित्तये । स्थातुः । च । सत्यम् । जगतः । च । धर्मणि । पुत्रस्य । पाथः । पदम् । अद्वयाविनः ॥te | sūnavaḥ | su-apasaḥ | su-daṃsasaḥ | mahī iti | jajñuḥ | mātarā | pūrva-cittaye | sthātuḥ | ca | satyam | jagataḥ | ca | dharmaṇ i | putrasya | pāthaḥ | padam | advayāvinaḥ