Sukta 1.159
उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः । सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥
उ॒त म॑न्ये पि॒तुर॒द्रुहो॒ मनो॑ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी॑मभिः । सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया॑ अ॒मृतं॒ वरी॑मभिः ॥
utá manye pitúr adrúho máno mātúr máhi svátavas tád havī́mabhiḥ | su-rétasā pitarā bhū́ma cakratur urú prajā́yā amṛ́taṃ várīmabhiḥ ||
And I perceive the father’s mind, undeceiving, and the mother’s great self-law; by our offerings we call that. With a good seed they two became our parents; they made wide for the offspring the deathless vastness by their encompassing powers.
उ॒त । म॒न्ये॒ । पि॒तुः । अ॒द्रुहः॑ । मनः॑ । मा॒तुः । महि॑ । स्वऽत॑वः । तत् । हवी॑मऽभिः । सु॒ऽरेत॑सा । पि॒तरा॑ । भूम॑ । च॒क्र॒तुः॒ । उ॒रु । प्र॒ऽजायाः॑ । अ॒मृत॑म् । वरी॑मऽभिः ॥उत । मन्ये । पितुः । अद्रुहः । मनः । मातुः । महि । स्वतवः । तत् । हवीमभिः । सुरेतसा । पितरा । भूम । चक्रतुः । उरु । प्रजायाः । अमृतम् । वरीमभिः ॥uta | manye | pituḥ | adruhaḥ | manaḥ | mātuḥ | mahi | sva-tavaḥ | tat | havīma-bhiḥ | su-retasā | pitarā | bhūma | cakratuḥ | uru | pra-jāyāḥ | amṛtam | varīma-bhiḥ