Sukta 1.159
प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा । देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा । दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥
prá dyā́vā yajñáiḥ pṛthivī́ ṛtā́-vṛdhā mahī́ stuṣe vidátheṣu prá-cetasā | devébhir yé deva-pútre su-dáṃsasetthā dhiyā́ vā́ryāṇi pra-bhū́ṣataḥ ||
Forward I praise Heaven and Earth with our offerings, the great ones who increase by the Truth; in the assemblies I hymn them, wide in awakened intelligence—those two divine daughters/sons among the gods, of beautiful power, who by the thought-array adorn the desirable boons.
प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । ऋ॒त॒ऽवृधा॑ । म॒ही इति॑ । स्तु॒षे॒ । वि॒दथे॑षु । प्रऽचे॑तसा । दे॒वेभिः । ये इति॑ । दे॒वऽपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । सु॒ऽदंस॑सा । इ॒त्था । धि॒या । वार्या॑णि । प्र॒ऽभूष॑तः ॥प्र । द्यावा । यज्ञैः । पृथिवी इति । ऋतवृधा । मही इति । स्तुषे । विदथेषु । प्रचेतसा । देवेभिः । ये इति । देवपुत्रे इति देवपुत्रे । सुदंससा । इत्था । धिया । वार्याणि । प्रभूषतः ॥pra | dyāvā | yajñaiḥ | pṛthivī iti | ṛta-vṛdhā | mahī iti | stuṣe | vidatheṣu | pra-cetasā | devebhiḥ | ye iti | deva-putreitideva-putre | su-daṃsasā | itthā | dhiyā | vāryāṇi | pra-bhūṣataḥ