Sukta 1.157
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः । युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथाम् ॥
यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथाम् ॥
yuváṃ ha gárbhaṃ jágatīṣu dhattho yuváṃ víśveṣu bhúvaneṣv antár | yuvám agníṃ ca vṛ́ṣaṇāv apáś ca vánaspatīṃr aśvināv áirayethām ||
You indeed set the secret embryo of becoming in the moving worlds; you are within all the worlds. You two, strong ones, set in motion Agni and the Waters and the Lords of the forest—awakening the powers that build and heal the embodied life.
यु॒वम् । ह॒ । गर्भ॑म् । जग॑तीषु । ध॒त्थः॒ । यु॒वम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ । यु॒वम् । अ॒ग्निम् । च॒ । वृ॒ष॒णौ॒ । अ॒पः । च॒ । वन॒स्पती॑न् । अ॒श्वि॒नौ॒ । ऐर॑येथाम् ॥युवम् । ह । गर्भम् । जगतीषु । धत्थः । युवम् । विश्वेषु । भुवनेषु । अन्तरिति । युवम् । अग्निम् । च । वृषणौ । अपः । च । वनस्पतीन् । अश्विनौ । ऐरयेथाम् ॥yuvam | ha | garbham | jagatīṣu | dhatthaḥ | yuvam | viśveṣu | bhuvaneṣu | antariti | yuvam | agnim | ca | vṛṣaṇau | apaḥ | ca | vanaspatīn | aśvinau | airayethām