Sukta 1.157
युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः । अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥
यु॒वं ह॑ स्थो भि॒षजा॑ भेष॒जेभि॒रथो॑ ह स्थो र॒थ्या॒३॒॑ राथ्ये॑भिः । अथो॑ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां॑ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ॥
yuváṃ ha sthó bhiṣájā bheṣajébhir átho ha sthó rathyā̀ rā́thyebhiḥ | átho ha kṣatrám ádhi dhattha ugrā́ yó vāṃ havíṣmān mánasā dadā́śa ||
You indeed are healers with your healings; and you are masters of the chariot-way with your chariot-powers. And you set victorious might upon the one who offers to you with the oblation and with the mind—so the inner battle is won by your strong companionship.
यु॒वम् । ह॒ । स्थः॒ । भि॒षजा॑ । भे॒ष॒जेभिः॑ । अथो॒ इति॑ । ह॒ । स्थः॒ । र॒थ्या॑ । रथ्ये॑भि॒रिति॒ रथ्ये॑भिः । अथो॒ इति॑ । ह॒ । क्ष॒त्रम् । अधि॑ । ध॒त्थ॒ । उ॒ग्रा॒ । यः । वा॒म् । ह॒विष्मा॑न् । मन॑सा । द॒दाश॑ ॥युवम् । ह । स्थः । भिषजा । भेषजेभिः । अथो इति । ह । स्थः । रथ्या । रथ्येभिरिति रथ्येभिः । अथो इति । ह । क्षत्रम् । अधि । धत्थ । उग्रा । यः । वाम् । हविष्मान् । मनसा । ददाश ॥yuvam | ha | sthaḥ | bhiṣajā | bheṣajebhiḥ | atho iti | ha | sthaḥ | rathyā | rathyebhiritirathyebhiḥ | atho iti | ha | kṣatram | adhi | dhattha | ugrā | yaḥ | vām | haviṣmān | manasā | dadāśa