Sukta 1.157
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् । प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या न॒: कश॑या मिमिक्षतम् । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
ā́ na ūrjáṃ vahatam aśvinā yuváṃ mádhu-matyā naḥ káśayā mimikṣatam | prá-ā́yus tā́riṣṭaṃ nī́ rapā́ṃsi mṛkṣataṃ sédhataṃ dvéṣo bhavatam sacā-bhúvā ||
Bring to us the true nourishment and increase, O Aśvins; with your honey-laden whip mingle it for us. Set our life-force forward into wholeness; wipe away the stains and hurts; repel hostility—be with us as powers that accompany and become with us.
आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मधु॑ऽमत्या । नः॒ । कश॑या । मि॒मि॒क्ष॒त॒म् । प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् । मधुमत्या । नः । कशया । मिमिक्षतम् । प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाभुवा ॥ā | naḥ | ūrjam | vahatam | aśvinā | yuvam | madhu-matyā | naḥ | kaśayā | mimikṣatam | pra | āyuḥ | tāriṣṭam | niḥ | rapāṃsi | mṛkṣatam | sedhatam | dveṣaḥ | bhavatam | sacābhuvā