Sukta 1.157
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥
अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः । त्रि॒व॒न्धु॒रो म॒घवा॑ वि॒श्वसौ॑भग॒: शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥
arvā́ṅ tri-cákro madhu-vā́hano rátho jīrā́śvo aśvínoḥ yātu su-stutáḥ | tri-vándhuro maghávā viśvá-saúbhagaḥ śáṃ na ā́ vakṣad dvi-páde cátuṣ-pade ||
Hither let the three-wheeled, honey-bearing chariot of the Aśvins come, with swift horses, well-praised. Three-seated, rich in gifts and universal good-fortune, may it bring peace to us—in the two-footed and in the four-footed (in all our embodied life).
अ॒र्वाङ् । त्रि॒ऽच॒क्रः । म॒धु॒ऽवाह॑नः । रथः॑ । जी॒रऽअ॑श्वः । अ॒श्विनोः॑ । या॒तु॒ । सुऽस्तु॑तः । त्रि॒ऽव॒न्धु॒रः । म॒घऽवा॑ । वि॒श्वऽसौ॑भगः । शम् । नः॒ । आ । व॒क्ष॒त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ॥अर्वाङ् । त्रिचक्रः । मधुवाहनः । रथः । जीरअश्वः । अश्विनोः । यातु । सुस्तुतः । त्रिवन्धुरः । मघवा । विश्वसौभगः । शम् । नः । आ । वक्षत् । द्विपदे । चतुःपदे ॥arvāṅ | tri-cakraḥ | madhu-vāhanaḥ | rathaḥ | jīra-aśvaḥ | aśvinoḥ | yātu | su-stutaḥ | tri-vandhuraḥ | magha-vā | viśva-saubhagaḥ | śam | naḥ | ā | vakṣat | dvi-pade | catuḥ-pade