Sukta 1.157
अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा । आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥
अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्च॒न्द्रा म॒ह्या॑वो अ॒र्चिषा॑ । आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥
ábodhy agnír jmà úd eti sū́ryo ví uṣā́ś candrā́ mahyā́vo arcíṣā | ā́yukṣātām aśvínā yā́tave ráthaṃ prá-āsāvīd deváḥ savitā́ jágat pṛ́thak ||
Agni has awakened in the earthly being; the Sun rises; Dawn has spread out, and the bright one (candrā) shines with vast radiance. The Aśvins have yoked their chariot for the journey; Savitṛ the god has sent forth the moving world, each thing into its own wide course.
अबो॑धि । अ॒ग्निः । ज्मः । उत् । ए॒ति॒ । सूर्यः॑ । वि । उ॒षाः । च॒न्द्रा । म॒ही । आ॒वः॒ । अ॒र्चिषा॑ । अयु॑क्षाताम् । अ॒श्विना॑ । यात॑वे । रथ॑म् । प्र । अ॒सा॒वी॒त् । दे॒वः । स॒वि॒ता । जग॑त् । पृथ॑क् ॥अबोधि । अग्निः । ज्मः । उत् । एति । सूर्यः । वि । उषाः । चन्द्रा । मही । आवः । अर्चिषा । अयुक्षाताम् । अश्विना । यातवे । रथम् । प्र । असावीत् । देवः । सविता । जगत् । पृथक् ॥abodhi | agniḥ | jmaḥ | ut | eti | sūryaḥ | vi | uṣāḥ | candrā | mahī | āvaḥ | arciṣā | ayukṣātām | aśvinā | yātave | ratham | pra | asāvīt | devaḥ | savitā | jagat | pṛthak