Sukta 1.156
तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः । दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते ॥
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धस॑: । दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णु॒: सखि॑वाँ अपोर्णु॒ते ॥
tám asya rājā váruṇas tám aśvínā krátum sacanta mārútasya védhasaḥ | dādhā́ra dákṣam uttamáṃ áhār-vidaṃ vrjáṃ ca víṣṇuḥ sákhivā́n apa-ūrṇute ||
Of him, Varuṇa the king takes his sovereign regard; the Aśvins join themselves to his effective will; the Marut-wise power upholds the supreme discernment that finds the Day. And Viṣṇu, the Friend, unveils also the luminous enclosure (vraja) for him.
तम् । अ॒स्य॒ । राजा॑ । वरु॑णः । तम् । अ॒श्विना॑ । क्रतु॑म् । स॒च॒न्त॒ । मारु॑तस्य । वे॒धसः॑ । दा॒धार॑ । दक्ष॑म् । उ॒त्ऽत॒मम् । अ॒हः॒ऽविद॑म् । व्र्ज॒म् । च॒ । विष्णुः॑ । सखि॑ऽवान् । अ॒प॒ऽऊ॒र्णु॒ते ॥तम् । अस्य । राजा । वरुणः । तम् । अश्विना । क्रतुम् । सचन्त । मारुतस्य । वेधसः । दाधार । दक्षम् । उत्तमम् । अहःविदम् । व्र्जम् । च । विष्णुः । सखिवान् । अपऊर्णुते ॥tam | asya | rājā | varuṇaḥ | tam | aśvinā | kratum | sacanta | mārutasya | vedhasaḥ | dādhāra | dakṣam | ut-tamam | ahaḥ-vidam | vrjam | ca | viṣṇuḥ | sakhi-vān | apa-ūrṇute