Sukta 1.156
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥
आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इन्द्रा॑य॒ विष्णु॑: सु॒कृते॑ सु॒कृत्त॑रः । वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥
ā yó vivā́ya sacáthāya daívyá índrāya víṣṇuḥ su-kṛ́te su-kṛ́t-taraḥ | védhā́ ajinvat tri-sádhastha ā́ryam ṛtásya bhā́ge yajamānám ā́bhajat ||
He who has come to the divine companionship—Viṣṇu, more perfectly beneficent to the doer of good—has stirred the inspired Seer (within) for Indra. Established in the three seats, he apportioned the sacrificer to the share of Ṛta, to the noble (ārya) portion of the truth-order.
आ । यः । वि॒वाय॑ । स॒चथा॑य । दैव्यः॑ । इन्द्रा॑य । विष्णुः॑ । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः । वे॒धाः । अ॒जि॒न्व॒त् । त्रि॒ऽस॒ध॒स्थः । आर्य॑म् । ऋ॒तस्य॑ । भा॒गे । यज॑मान॑म् । आ । अ॒भ॒ज॒त् ॥आ । यः । विवाय । सचथाय । दैव्यः । इन्द्राय । विष्णुः । सुकृते । सुकृत्तरः । वेधाः । अजिन्वत् । त्रिसधस्थः । आर्यम् । ऋतस्य । भागे । यजमानम् । आ । अभजत् ॥ā | yaḥ | vivāya | sacathāya | daivyaḥ | indrāya | viṣṇuḥ | su-kṛte | sukṛt-taraḥ | vedhāḥ | ajinvat | tri-sadhasthaḥ | āryam | ṛtasya | bhāge | yajamānam | ā | abhajat