Sukta 1.156
तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥
तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन । आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥
tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana | ā asya jānanto nāma cid vivaktana mahas te viṣṇo sumatiṃ bhajāmahe ||
Him—the ancient one—may we know, O singers, as we know the womb of Ṛta which he fills by his very birth. Knowing even his name, declare it forth; O Viṣṇu of the Vast, we share in your good understanding.
तम् । ऊँ॒ इति॑ । स्तो॒ता॒रः॒ । पू॒र्व्यम् । यथा॑ । वि॒द । ऋ॒तस्य॑ । गर्भ॑म् । ज॒नुषा॑ । पि॒प॒र्त॒न॒ । आ अ॒स्य॒ । जा॒नन्तः॑ । नाम॑ । चि॒त् । वि॒व॒क्त॒न॒ । म॒हः । ते॒ । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । भ॒जा॒म॒हे॒ ॥तम् । ऊँ इति । स्तोतारः । पूर्व्यम् । यथा । विद । ऋतस्य । गर्भम् । जनुषा । पिपर्तन । आ अस्य । जानन्तः । नाम । चित् । विवक्तन । महः । ते । विष्णो इति । सुमतिम् । भजामहे ॥tam | oṃ iti | stotāraḥ | pūrvyam | yathā | vida | ṛtasya | garbham | januṣā | pipartana | ā asya | jānantaḥ | nāma | cit | vivaktana | mahaḥ | te | viṣṇo iti | su-matim | bhajāmahe