Sukta 1.156
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥
यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥
yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati | yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat ||
He who gives to Viṣṇu—the ancient Seer and yet ever-new, the one who awakens the good understanding—he who speaks greatly of the greatness that is born of him, that man indeed wins by the powers of inspired hearing even what is hard to yoke.
यः । पू॒र्व्याय॑ । वे॒धसे॑ । नवी॑यसे । सु॒मत्ऽजा॑नये । विष्ण॑वे । ददा॑शति । यः । जा॒तम् । अ॒स्य॒ । म॒ह॒तः । महि॑ । ब्रव॑त् । सः । इत् । ऊँ॒ इति॑ । श्रवः॑ऽभिः । युज्य॑म् । चि॒त् । अ॒भि । अ॒स॒त् ॥यः । पूर्व्याय । वेधसे । नवीयसे । सुमत्जानये । विष्णवे । ददाशति । यः । जातम् । अस्य । महतः । महि । ब्रवत् । सः । इत् । ऊँ इति । श्रवःभिः । युज्यम् । चित् । अभि । असत् ॥yaḥ | pūrvyāya | vedhase | navīyase | sumat-jānaye | viṣṇave | dadāśati | yaḥ | jātam | asya | mahataḥ | mahi | bravat | saḥ | it | oṃ iti | śravaḥ-bhiḥ | yujyam | cit | abhi | asat