Sukta 1.148
पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा । आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥
पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद्रो॑चते॒ वन॒ आ वि॒भावा॑ । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या॑मस॒नामनु॒ द्यून् ॥
purū́ṇi dasmó ní riṇāti jámbhair ā́d rocate vána ā́ vibhā́vā | ā́d asya vā́to ánu vāti śocír astúr na śaryā́m asanā́m ánu dyū́n ||
The wondrous one clears away many things with his jaws; he shines in the wood, the wide-radiant. After him the wind follows, blowing upon the flame; like a swift archer’s flight it runs on through the days, unceasing.
पु॒रूणि॑ । द॒स्मः । नि । रि॒णा॒ति॒ । जम्भैः॑ । आत् । रो॒च॒ते॒ । वने॑ । आ । वि॒भाऽवा॑ । आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अस्तुः॑ । न । शर्या॑म् । अ॒स॒नाम् । अनु॑ । द्यून् ॥पुरूणि । दस्मः । नि । रिणाति । जम्भैः । आत् । रोचते । वने । आ । विभावा । आत् । अस्य । वातः । अनु । वाति । शोचिः । अस्तुः । न । शर्याम् । असनाम् । अनु । द्यून् ॥purūṇi | dasmaḥ | ni | riṇāti | jambhaiḥ | āt | rocate | vane | ā | vibhāvā | āt | asya | vātaḥ | anu | vāti | śociḥ | astuḥ | na | śaryām | asanām | anu | dyūn