Sukta 1.148
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति । अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥
न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं॑ रेष॒णा रे॒षय॑न्ति । अ॒न्धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥
ná yaṃ ripávo ná riṣaṇyávo gárbhe sántam reṣaṇā́ reṣáyanti | andhā́ apaśyā́ ná dabhan abhikhyā́ nítyāsa īṃ pretā́ro arakṣan ||
No foes, no assailants can wound him while he is in the womb; the injurers do not injure him. Blind and unseeing, they do not prevail by their spying; the eternal guardians have protected him in his forward movement.
न । यम् । रि॒पवः॑ । न । रि॒ष॒ण्यवः॑ । गर्भे॑ । सन्त॑म् । रे॒ष॒णाः । रे॒षय॑न्ति । अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒ऽख्या । नित्या॑सः । ई॒म् । प्रे॒तारः॑ । अ॒र॒क्ष॒न् ॥न । यम् । रिपवः । न । रिषण्यवः । गर्भे । सन्तम् । रेषणाः । रेषयन्ति । अन्धाः । अपश्याः । न । दभन् । अभिख्या । नित्यासः । ईम् । प्रेतारः । अरक्षन् ॥na | yam | ripavaḥ | na | riṣaṇyavaḥ | garbhe | santam | reṣaṇāḥ | reṣayanti | andhāḥ | apaśyāḥ | na | dabhan | abhi-khyā | nityāsaḥ | īm | pretāraḥ | arakṣan