Sukta 1.148
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः । प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥
नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः । प्र सू न॑यन्त गृ॒भय॑न्त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥
nítye cin nú yaṃ sádane jagṛbhre práśastibhir dadhire yajñíyāsaḥ | prá sū nayanta gṛbháyanta iṣṭā́v aśvā́so na rathyò rarahāṇā́ḥ ||
Him indeed they have seized in the eternal seat and by praises have set him there—the worshippers of the sacrifice. They lead him forward and take hold of him in the desired rite, like chariot-horses straining in the rush.
नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः । प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥नित्ये । चित् । नु । यम् । सदने । जगृभ्रे । प्रशस्तिभिः । दधिरे । यज्ञियासः । प्र । सु । नयन्त । गृभयन्तः । इष्टौ । अश्वासः । न । रथ्यः । ररहाणाः ॥nitye | cit | nu | yam | sadane | jagṛbhre | praśasti-bhiḥ | dadhire | yajñiyāsaḥ | pra | su | nayanta | gṛbhayantaḥ | iṣṭau | aśvāsaḥ | na | rathyaḥ | rarahāṇāḥ