Sukta 1.148
ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् । जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥
द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् । जु॒षन्त॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥
dadānám ín na dadabhanta mánmā́gnír varū́thaṃ máma tásya cākan | júṣanta víśvāny asya kármopastutíṃ bháramāṇasya kāróḥ ||
Even while he gives, my thought does not fail him; Agni becomes a shelter for me—of him I take delight. May they accept all his works and the praise that accompanies them, of the singer who bears the offering forward.
द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म॑ । अ॒ग्निः । वरू॑थम् । मम॑ । तस्य॑ चा॒क॒न् । जु॒षन्त॑ । विश्वा॑नि । अ॒स्य॒ । कर्म॑ । उप॑ऽस्तुतिम् । भर॑माणस्य । का॒रोः ॥ददानम् । इत् । न । ददभन्त । मन्म । अग्निः । वरूथम् । मम । तस्य चाकन् । जुषन्त । विश्वानि । अस्य । कर्म । उपस्तुतिम् । भरमाणस्य । कारोः ॥dadānam | it | na | dadabhanta | manma | agniḥ | varūtham | mama | tasyacākan | juṣanta | viśvāni | asya | karma | upa-stutim | bharamāṇasya | kāroḥ