Sukta 1.148
मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् । नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥
मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यम् । नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भाव॑म् ॥
mathīd yád īṃ viṣṭó mātariśvā hótāraṃ viśvā́psuṃ viśvádevyam | ní yaṃ dadhúr manuṣyā́su víkṣu svàrṇa citráṃ vápuṣe vibhāvám ||
When Mātariśvan, having churned him out and established him, set the Hotar—all-skilled, belonging to all the gods—then the human clans placed him among their peoples, a radiant and variegated form, the wide-shining power of the luminous world.
मथी॑त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा॑ । होता॑रम् । वि॒श्वऽअ॑प्सुम् । वि॒श्वऽदे॑व्यम् । नि । यम् । द॒धुः । म॒नु॒ष्या॑सु । वि॒क्षु । स्वः॑ । न । चि॒त्रम् । वपु॑षे । वि॒भाऽव॑म् ॥मथीत् । यत् । ईम् । विष्टः । मातरिश्वा । होतारम् । विश्वअप्सुम् । विश्वदेव्यम् । नि । यम् । दधुः । मनुष्यासु । विक्षु । स्वः । न । चित्रम् । वपुषे । विभावम् ॥mathīt | yat | īm | viṣṭaḥ | mātariśvā | hotāram | viśva-apsum | viśva-devyam | ni | yam | dadhuḥ | manuṣyāsu | vikṣu | svaḥ | na | citram | vapuṣe | vibhāvam