Sukta 1.145
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः । अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥
उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः । अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये॑ मु॒दे यदीं॒ गच्छ॑न्त्युश॒तीर॑पिष्ठि॒तम् ॥
upa-sthā́yaṃ carati yát sam-ā́rat sadyó jātás tat-sā́ra yújyebhiḥ | abhí śvā́ntaṃ mṛśate nā́ndye mudé yad ī́ṃ gácchanty uśatī́r api-sthitám ||
He moves taking his stand close within (the human seat), when he has come together into right order; newly born, he runs with his yoking powers. The desiring energies touch him in joy and gladness, when they go to him who is established near, as to a resting flame.
उ॒प॒ऽस्थाय॑म् । च॒र॒ति॒ । यत् । स॒म्ऽआर॑त । स॒द्यः । जा॒तः । त॒त्सा॒र॒ । युज्ये॑भिः । अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये॑ । मु॒दे । यत् । ई॒म् । गच्छ॑न्ति । उ॒श॒तीः । अ॒पि॒ऽस्थि॒तम् ॥उपस्थायम् । चरति । यत् । सम्आरत । सद्यः । जातः । तत्सार । युज्येभिः । अभि । श्वान्तम् । मृशते । नान्द्ये । मुदे । यत् । ईम् । गच्छन्ति । उशतीः । अपिस्थितम् ॥upa-sthāyam | carati | yat | sam-ārata | sadyaḥ | jātaḥ | tatsāra | yujyebhiḥ | abh i | śvāntam | mṛśate | nāndye | mude | yat | īm | gacchanti | uśatīḥ | api-sthitam