Sukta 1.145
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे । पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥
तमिद्ग॑च्छन्ति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येक॑: शृणव॒द्वचां॑सि मे । पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोति॒: शिशु॒राद॑त्त॒ सं रभ॑: ॥
tám íd gácchanti juhváḥ tám arvatī́r víśvāny ékaḥ śṛṇavád vácāṃsi me | puru-praíṣas táturir yajñá-sādhanó 'cchidrótiḥ śíśur ā́datta sáṃ rábhaḥ ||
To him the offering-hands go; to him the swift-moving powers. He alone hears all my words. Of many impulsions, a strong overcomer, accomplisher of the sacrifice, with unbroken help—this child of flame takes firm hold and gathers the energies together.
तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥तम् । इत् । गच्छन्ति । जुह्वः । तम् । अर्वतीः । विश्वानि । एकः । शृणवत् । वचांसि । मे । पुरुप्रैषः । ततुरिः । यज्ञसाधनः । अच्छिद्रऊतिः । शिशुः । आ । अदत्त । सम् । रभः ॥tam | it | gacchanti | juhvaḥ | tam | arvatīḥ | viśvāni | ekaḥ | śṛṇavat | vacāṃsi | me | puru-praiṣaḥ | taturiḥ | yajña-sādhanaḥ | acchidra-ūtiḥ | śiśuḥ | ā | adatta | sam | rabhaḥ