Sukta 1.145
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि । व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥
स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि । व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥
sá ī́ṃ mṛgó apyó vanargúr úpa tváci upa-masyā́ṃ ní dhāyi | vy àbravīd vayúnā mártyebhyo 'gnír vidvā́ṃ ṛtá-cid hí satyáḥ ||
He, the seeker in the waters, the forest-roamer, was set down upon the surface, in the nearest covering. Then Agni, the knower, spoke out the secret workings to mortals; for he is true, even in the law of ṛta.
सः । ई॒म् । मृ॒गः । अप्यः॑ । व॒न॒र्गुः । उप॑ । त्व॒चि । उ॒प॒ऽमस्या॒म् । नि । धा॒यि॒ । वि । अ॒ब्र॒वी॒त् । व॒युना॑ । मर्त्ये॑भ्यः । अ॒ग्निः । वि॒द्वान् । ऋ॒त॒ऽचित् । हि । स॒त्यः ॥सः । ईम् । मृगः । अप्यः । वनर्गुः । उप । त्वचि । उपमस्याम् । नि । धायि । वि । अब्रवीत् । वयुना । मर्त्येभ्यः । अग्निः । विद्वान् । ऋतचित् । हि । सत्यः ॥saḥ | īm | mṛgaḥ | apyaḥ | vanarguḥ | upa | tvaci | upa-masyām | ni | dhāyi | vi | abravīt | vayunā | martyebhyaḥ | agniḥ | vidvān | ṛta-cit | hi | satyaḥ