Sukta 1.144
त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना । एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥
त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना॑ । एनी॑ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया॑ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा॑शाते ॥
tváṃ hí agne divyásya rā́jasi tváṃ pārthivásya paśupā́ iva tmánā | enī́ te eté bṛhatī́ abhí-śriyā hiraṇyáyī vakvarī́ bárhir āśāte ||
You, O Agni, rule in the luminous world; you also in the earthly, by your own self-nature, are like a guardian of the herds. These two—vast and radiant, golden and richly woven—sit for you as the sacred seat of offering (barhis).
त्वम् । हि । अ॒ग्ने॒ । दि॒व्यस्य॑ । राज॑सि । त्वम् । पार्थि॑वस्य । प॒शु॒पाःऽइ॑व । त्मना॑ । एनी॒ इति॑ । ते॒ । ए॒ते इति॑ । बृ॒ह॒ती इति॑ । अ॒भि॒ऽश्रिया॑ । हि॒र॒ण्ययी॒ इति॑ । वक्व॑री॒ इति॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ॥त्वम् । हि । अग्ने । दिव्यस्य । राजसि । त्वम् । पार्थिवस्य । पशुपाःइव । त्मना । एनी इति । ते । एते इति । बृहती इति । अभिश्रिया । हिरण्ययी इति । वक्वरी इति । बर्हिः । आशाते इति ॥tvam | hi | agne | divyasya | rājasi | tvam | pārthivasya | paśupāḥ-iva | tmanā | enī iti | te | ete | iti | bṛhatī iti | abhi-śriyā | hiraṇyayī iti | vakvarī iti | barhiḥ | āśāteiti