Sukta 1.144
तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे । धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥
तमीं॑ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो॑ दे॒वं मर्ता॑स ऊ॒तये॑ हवामहे । धनो॒रधि॑ प्र॒वत॒ आ स ऋ॑ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा॑धित ॥
tám īṃ hinvanti dhītáyo dáśa vríśo deváṃ mártās ūtáye havāmahe | dhánor ádhi prá-vata ā́ sá ṛṇvaty abhivrájadbhir vayúnā návā adhita ||
The ten inspired powers urge him on; mortals call the God for help. From the bow of the sloping descent he sends forth his force; with new discernments, with those that move outward and break the encirclement, he reaches the goal.
तम् । ई॒म् । हि॒न्व॒न्ति॒ । धी॒तयः॑ । दश॑ । व्रिशः॑ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ । ह॒वा॒म॒हे॒ । धनोः॑ । अधि॑ । प्र॒ऽवतः॑ । आ । सः । ऋ॒ण्व॒ति॒ । अ॒भि॒व्रज॑त्ऽभिः । व॒युना॑ । नवा॑ । अ॒धि॒त॒ ॥तम् । ईम् । हिन्वन्ति । धीतयः । दश । व्रिशः । देवम् । मर्तासः । ऊतये । हवामहे । धनोः । अधि । प्रवतः । आ । सः । ऋण्वति । अभिव्रजत्भिः । वयुना । नवा । अधित ॥tam | īm | hinvanti | dhītayaḥ | daśa | vriśaḥ | devam | martāsaḥ | ūtaye | havāmahe | dhanoḥ | adhi | pra-vataḥ | ā | saḥ | ṛṇvati | abhivrajat-bhiḥ | vayunā | navā | adhita