Sukta 1.144
अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः । अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥
अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूषत॒ योनौ॑ दे॒वस्य॒ सद॑ने॒ परी॑वृताः । अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ॥
abhī́m ṛtásya dohánā anūṣata yónau devásya sádane párī-vṛtāḥ | apā́m upásthe ví-bhṛto yád ā́vasad ádha svadhā́ ádhayad yā́bhir ī́yate ||
Around him the milkings of Ṛta sounded forth, enclosed in the womb, in the seat of the God. When, upheld in the lap of the waters, he came to rest, then he made the self-law (svadhā) to flow—by which powers he journeys onward.
अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । योनौ॑ । दे॒वस्य॑ । सद॑ने । परि॑ऽवृताः । अ॒पाम् । उ॒पऽस्थे॑ । विऽभृ॑तः । यत् । आ । अव॑सत् । अध॑ । स्व॒धाः । अ॒ध॒य॒त् । याभिः॑ । ईय॑ते ॥अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । योनौ । देवस्य । सदने । परिवृताः । अपाम् । उपस्थे । विभृतः । यत् । आ । अवसत् । अध । स्वधाः । अधयत् । याभिः । ईयते ॥abhi | īm | ṛtasya | dohanāḥ | anūṣata | yonau | devasya | sadane | pari-vṛtāḥ | apām | upa-sthe | vi-bhṛtaḥ | yat | ā | avasat | adha | svadhāḥ | adhayat | yābhiḥ | īyate