Sukta 1.144
एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् । अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥
एति॒ प्र होता॑ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा॑न॒: शुचि॑पेशसं॒ धिय॑म् । अ॒भि स्रुच॑: क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ॥
éti prá hótā vratám asya māyáyā ūrdhvā́m dádhānaḥ śúci-peśasaṃ dhíyam | abhí srúcaḥ kramate dakṣiṇā-āvṛ́to yā́ asya dhā́ma prathamáṃ há niṃsate ||
Forward moves the inner Priest, by his power of shaping (māyā), holding aloft a luminous and perfectly formed thought. He advances toward the ladles of offering, turning to the right—toward those first seats of his own being where he is established.
एति॑ । प्र । होता॑ । व्र॒तम् । अ॒स्य॒ । मा॒यया॑ । ऊ॒र्ध्वाम् । दधा॑नः । शुचि॑ऽपेशसम् । धिय॑म् । अ॒भि । स्रुचः॑ । क्र॒म॒ते॒ । द॒क्षि॒णा॒ऽआ॒वृतः॑ । याः । अ॒स्य॒ । धाम॑ । प्र॒थ॒मम् । ह॒ । निंस॑ते ॥एति । प्र । होता । व्रतम् । अस्य । मायया । ऊर्ध्वाम् । दधानः । शुचिपेशसम् । धियम् । अभि । स्रुचः । क्रमते । दक्षिणाआवृतः । याः । अस्य । धाम । प्रथमम् । ह । निंसते ॥eti | pra | hotā | vratam | asya | māyayā | ūrdhvām | dadhānaḥ | śuci-peśasam | dhiyam | abhi | srucaḥ | kramate | dakṣiṇāāvṛtaḥ | yāḥ | asya | dhāma | prathamam | ha | niṃsate