Sukta 1.144
युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः । आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्त्समयंस्त सारथिः ॥
युयू॑षत॒: सव॑यसा॒ तदिद्वपु॑: समा॒नमर्थं॑ वि॒तरि॑त्रता मि॒थः । आदीं॒ भगो॒ न हव्य॒: सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्त्सम॑यंस्त॒ सार॑थिः ॥
yuyū́ṣataḥ sá-vayasā tád íd vápūḥ samā́nám árthaṃ vi-táritratā mitháḥ | ā́d īṃ bhágo ná havyáḥ sám asmad ā́ voḷhúr ná raśmī́n sám ayaṃsta sārathíḥ ||
Two of equal age separate in form, yet they carry one common purpose, moving in mutual alternation. Then, like a gracious giver receiving the offering, he draws them toward us; like a charioteer he gathers the reins and brings the powers into one control.
युयू॑षतः । सऽव॑यसा । तत् । इत् । वपुः॑ । स॒मा॒नम् । अर्थ॑म् । वि॒ऽतरि॑त्रता । मि॒थः । आद्त् । ईम् । भगः॑ । न । हव्यः॑ । सम् । अ॒स्मत् । आ । वोळ्हुः॑ । न । र॒श्मीन् । सम् । अ॒यं॒स्त॒ । सार॑थिः ॥युयूषतः । सवयसा । तत् । इत् । वपुः । समानम् । अर्थम् । वितरित्रता । मिथः । आद्त् । ईम् । भगः । न । हव्यः । सम् । अस्मत् । आ । वोळ्हुः । न । रश्मीन् । सम् । अयंस्त । सारथिः ॥yuyūṣataḥ | sa-vayasā | tat | it | vapuḥ | samānam | artham | vi-taritratā | mithaḥ | ādt | īm | bhagaḥ | na | havyaḥ | sam | asmat | ā | voḷhuḥ | na | raśmīn | sam | ayaṃsta | sārathiḥ