Sukta 1.143
घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते । इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥
घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते । इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धिय॑म् ॥
ghṛta-pratīkaṃ va ṛtasya dhūḥ-sadam agniṃ mitraṃ na samidhāna ṛñjate | indhāno akro vidatheṣu dīdyac chukra-varṇām ud u no yaṃsate dhiyam ||
Agni of the ghee-bright face, seated in the foundation of ṛta, is kindled like Mitra—he is set in order. When he is enflamed, unbent, shining in the assemblies, he lifts up for us the radiant-hued inspired thought.
घृ॒तऽप्र॑तीकम् । वः॒ । ऋ॒तस्य॑ । धूः॒ऽसद॑म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्ऽइ॒धा॒नः । ऋ॒ञ्ज॒ते॒ । इन्धा॑नः । अ॒क्रः । वि॒दथे॑षु । दीद्य॑त् । शु॒क्रऽव॑र्णाम् । उत् । ऊँ॒ इति॑ । नः॒ । यं॒स॒ते॒ । धिय॑म् ॥घृतप्रतीकम् । वः । ऋतस्य । धूःसदम् । अग्निम् । मित्रम् । न । सम्इधानः । ऋञ्जते । इन्धानः । अक्रः । विदथेषु । दीद्यत् । शुक्रवर्णाम् । उत् । ऊँ इति । नः । यंसते । धियम् ॥ghṛta-pratīkam | vaḥ | ṛtasya | dhūḥ-sadam | agnim | mitram | na | sam-idhānaḥ | ṛñjate | indhānaḥ | akraḥ | vidatheṣu | dīdyat | śukra-varṇām | ut | oṃ iti | naḥ | yaṃsate | dhiyam