Sukta 1.143
कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् । चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥
कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भि॒: काम॑मा॒वर॑त् । चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धिय॒: शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥
kuvin no agnir ucathasya vīrasad vasuṣ kuvid vasubhiḥ kāmam āvarat | codaḥ kuvit tutujyāt sātaye dhiyaḥ śuci-pratīkaṃ tam ayā dhiyā gṛṇe ||
Will Agni be for us the hero who sits in the chant—will he become the good, and with the Vasus satisfy our true desire? Will he, the impeller, drive our thoughts toward victory? Him of the pure face I affirm with this thought of aspiration.
कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् । चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥कुवित् । नः । अग्निः । उचथस्य । वीः । असत् । वसुः । कुवित् । वसुभिः । कामम् । आवरत् । चोदः । कुवित् । तुतुज्यात् । सातये । धियः । शुचिप्रतीकम् । तम् । अया । धिया । गृणे ॥kuvit | naḥ | agniḥ | ucathasya | vīḥ | asat | vasuḥ | kuvit | vasu-bhiḥ | kāmam | āvarat | codaḥ | kuvit | tutujyāt | sātaye | dhiyaḥ | śuci-pratīkam | tam | ayā | dhiyā | gṛṇe