Sukta 1.143
अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः । अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥
अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभि॑: पाहि श॒ग्मैः । अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भि॒: परि॑ पाहि नो॒ जाः ॥
aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ | adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhir pari pāhi no jāḥ ||
O Agni, unrelaxing, with unrelaxing protections—guard us with your auspicious, strong guardians. With safeguards that cannot be deceived and do not fail, O desired one, with unblinking watchfulness encompass and protect our peoples and births.
अप्र॑ऽयुच्छन् । अप्र॑युच्छत्ऽभिः । अ॒ग्ने॒ । शि॒वेभिः॑ । नः॒ । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः । अद॑ब्धेभिः । अदृ॑पितेभिः । इ॒ष्टे॒ । अनि॑मिषत्ऽभिः । परि॑ । पा॒हि॒ । नः॒ । जाः ॥अप्रयुच्छन् । अप्रयुच्छत्भिः । अग्ने । शिवेभिः । नः । पायुभिः । पाहि । शग्मैः । अदब्धेभिः । अदृपितेभिः । इष्टे । अनिमिषत्भिः । परि । पाहि । नः । जाः ॥apra-yucchan | aprayucchat-bhiḥ | agne | śivebhiḥ | naḥ | pāyu-bhiḥ | pāhi | śagmaiḥ | adabdhebhiḥ | adṛpitebhiḥ | iṣṭe | animiṣat-bhiḥ | pari | pāhi | naḥ | jāḥ