Sukta 1.143
न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः । अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्त्स वना न्यृञ्जते ॥
न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनि॑: । अ॒ग्निर्जम्भै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृ॑ञ्जते ॥
na yo varāya marutām iva svanaḥ senāiva sṛṣṭā divyā yathāśaniḥ | agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate ||
He does not yield—like the Maruts’ roar, like a host released, like a divine thunderbolt. With sharp jaws Agni devours and consumes; like a warrior he strikes down the foes—he clears the forests of obstruction within.
न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ । अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥न । यः । वराय । मरुताम्इव । स्वनः । सेनाइव । सृष्टा । दिव्या । यथा । अशनिः । अग्निः । जम्भैः । तिगितैः । अत्ति । भर्वति । न । शत्रून् । सः । वना । नि । ऋञ्जते ॥na | yaḥ | varāya | marutām-iva | svanaḥ | senāiva | sṛṣṭā | divyā | yathā | aśaniḥ | agniḥ | jambhaiḥ | tigitaiḥ | atti | bharvati | na | śatrūn | saḥ | vanā | ni | ṛñjate