Sukta 1.143
यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना । अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥
यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ । अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥
yam āīrire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā | agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati ||
Agni whom the Bhṛgus awakened—knower of all—who is the navel of the earth and by greatness the center of the world: urge him with your hymns into your own dwelling. He alone reigns over the riches, like Varuṇa in sovereign breadth—holding the order.
यम् । आ॒ऽई॒रि॒रे॒ । भृग॑वः । वि॒श्वऽवे॑दसम् । नाभा॑ । पृ॒थि॒व्याः । भुव॑नस्य । म॒ज्मना॑ । अ॒ग्निम् । तम् । गीः॒ऽभिः । हि॒नु॒हि॒ । स्वे । आ । दमे॑ । यः । एकः॑ । वस्वः॑ । वरु॑णः । न । राज॑ति ॥यम् । आईरिरे । भृगवः । विश्ववेदसम् । नाभा । पृथिव्याः । भुवनस्य । मज्मना । अग्निम् । तम् । गीःभिः । हिनुहि । स्वे । आ । दमे । यः । एकः । वस्वः । वरुणः । न । राजति ॥yam | āīrire | bhṛgavaḥ | viśva-vedasam | nābhā | pṛthivyāḥ | bhuvanasya | majmanā | agnim | tam | gīḥ-bhiḥ | hinuhi | sve | ā | dame | yaḥ | ekaḥ | vasvaḥ | varuṇaḥ | na | rājati