Sukta 1.143
अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः । भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥
अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नव॑: सुसं॒दृश॑: सु॒प्रती॑कस्य सु॒द्युत॑: । भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे॑जन्ते॒ अस॑सन्तो अ॒जरा॑: ॥
asya tveṣā ajarā asya bhānavas su-sandṛśaḥ su-pratīkasya su-dyutaḥ | bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ ||
His intensities are ageless; his rays are beautifully seen—of fair face and splendid light. Like rivers surging beyond the night, O Agni, they tremble and move, unwearying and undiminished—powers of luminous persistence.
अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽस॒न्दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ । भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥अस्य । त्वेषाः । अजराः । अस्य । भानवः । सुसन्दृशः । सुप्रतीकस्य । सुद्युतः । भात्वक्षसः । अति । अक्तुः । न । सिन्धवः । अग्नेः । रेजन्ते । अससन्तः । अजराः ॥asya | tveṣāḥ | ajarāḥ | asya | bhānavaḥ | su-sandṛśaḥ | su-pratīkasya | su-dyutaḥ | bhātvakṣasaḥ | ati | aktuḥ | na | sindhavaḥ | agneḥ | rejante | asasantaḥ | ajarāḥ