Sukta 1.143
स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने । अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥
स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने । अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥
sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane | asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat ||
When he is born in the highest wideness, Agni becomes manifest for Mātariśvan, the bringer of the flame. By his will and by the greatness of his kindling, he makes heaven and earth shine forth with his blaze—awakening the field of consciousness.
सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व॑ने । अ॒स्य । क्रत्वा॑ । स॒म्ऽइ॒धा॒नस्य॑ । म॒ज्मना॑ । प्र । द्यावा॑ । शो॒चिः । पृ॒थि॒वी इति॑ । अ॒रो॒च॒य॒त् ॥सः । जायमानः । परमे । विओमनि । आविः । अग्निः । अभवत् । मातरिश्वने । अस्य । क्रत्वा । सम्इधानस्य । मज्मना । प्र । द्यावा । शोचिः । पृथिवी इति । अरोचयत् ॥saḥ | jāyamānaḥ | parame | vi-omani | āviḥ | agniḥ | abhavat | mātariśvane | asya | kratvā | sam-idhānasya | majmanā | pra | dyāvā | śociḥ | pṛthivī iti | arocayat