Sukta 1.142
स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे । वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥
स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे । वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा॑य॒ शर्म॑ स॒प्रथ॑: ॥
stṛṇānā́so yatá-sruco barhír yajñé svàdhvare | vṛñjé devávyacas-tamam índrāya śárma sa-práthaḥ ||
Spreading the sacred seat and holding the ladles in right control, in the well-ordered journey of the sacrifice, we arrange the widest divine-utterance for Indra—an ample peace and protection in which the being can expand.
स्तृ॒णा॒नासः॑ । य॒तऽस्रु॑चः । ब॒र्हिः । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे । वृ॒ञ्जे । दे॒वव्य॑चःऽतमम् । इन्द्रा॑य । शर्म॑ । स॒ऽप्रथः॑ ॥स्तृणानासः । यतस्रुचः । बर्हिः । यज्ञे । सुअध्वरे । वृञ्जे । देवव्यचःतमम् । इन्द्राय । शर्म । सप्रथः ॥stṛṇānāsaḥ | yata-srucaḥ | barhiḥ | yajñe | su-adhvare | vṛñje | devavyacaḥ-tamam | indrāya | śarma | sa-prathaḥ