Sukta 1.142
ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् । इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥
ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् । इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥
īḷitó agna ā́ vahéndraṃ citrám ihá priyám | iyáṃ hí tvā matír mámācchā́ su-jihva vacyáte ||
O Agni, praised and awakened, bring here Indra, the luminous and beloved power; for this my thought-force calls to you—O fair-tongued—so that the Word may be rightly uttered and the will-to-victory may arrive within.
ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् । इ॒यम् । हि । त्वा॒ । म॒तिः । मम॑ । अच्छ॑ । सु॒ऽजि॒ह्व॒ । व॒च्यते॑ ॥ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् । इयम् । हि । त्वा । मतिः । मम । अच्छ । सुजिह्व । वच्यते ॥īḷitaḥ | agne | ā | vaha | indram | citram | iha | priyam | iyam | hi | tvā | matiḥ | mama | accha | su-jihva | vacyate