Sukta 1.142
शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति । नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥
शुचि॑: पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति । नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञिय॑: ॥
śúciḥ pāvakó ádbhuto mádhvā yajñáṃ mimikṣati | narā́śaṃsas trír ā́ divó devó devéṣu yajñíyaḥ ||
Pure and purifying, wondrous in his working, he blends the sacrifice with sweetness of delight; Narāśaṃsa, the god who comes threefold from the heaven, becomes worthy of the gods and makes the offering fit for the divine powers within us.
शुचिः॑ । पा॒व॒कः । अद्भु॑तः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ति॒ । नरा॒संसः॑ । त्रिः । आ । दि॒वः । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥शुचिः । पावकः । अद्भुतः । मध्वा । यज्ञम् । मिमिक्षति । नरासंसः । त्रिः । आ । दिवः । देवः । देवेषु । यज्ञियः ॥śuciḥ | pāvakaḥ | adbhutaḥ | madhvā | yajñam | mimikṣati | narāsaṃsaḥ | triḥ | ā | divaḥ | devaḥ | deveṣu | yajñiyaḥ