Sukta 1.142
घृतवन्तमुप मासि मधुमन्तं तनूनपात् । यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥
घृ॒तव॑न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् । य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुष॑: ॥
ghṛtávantam úpa māsi mádhumantaṃ tanū-napāt | yajñáṃ víprasya mā́vataḥ śaśamā́nasyá dā́śuṣaḥ ||
O Tanūnapāt, draw near to this offering made rich with clarified light and sweet delight; confirm and uplift the sacrifice of the illumined seer, of the one who gives and grows quiet in self-mastery, so that the giving becomes a settled power in us.
घृ॒तऽव॑न्तम् । उप॑ । मा॒सि॒ । मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् । य॒ज्ञम् । विप्र॑स्य । माऽव॑तः । श॒श॒मा॒नस्य॑ । दा॒शुषः॑ ॥घृतवन्तम् । उप । मासि । मधुमन्तम् । तनूनपात् । यज्ञम् । विप्रस्य । मावतः । शशमानस्य । दाशुषः ॥ghṛta-vantam | upa | māsi | madhu-mantam | tanū-napāt | yajñam | viprasya | māvataḥ | śaśamānasya | dāśuṣaḥ