Sukta 1.142
समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे । तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥
समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे । तन्तुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥
sam-íddho agna ā́ vaha devā́m̐ adyá yata-srúce | tántuṃ tanuṣva pū́rvyaṃ sutá-somāya dāśúṣe ||
Kindled, O Agni, bring the gods today, O you whose ladle is set in right movement. Stretch the ancient thread of the work for the Soma that is pressed, for the giver who offers himself.
सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ । व॒ह॒ । दे॒वान् । अ॒द्य । य॒तऽस्रु॑चे । तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । सु॒तऽसो॑माय । दा॒शुषे॑ ॥सम्इद्धः । अग्ने । आ । वह । देवान् । अद्य । यतस्रुचे । तन्तुम् । तनुष्व । पूर्व्यम् । सुतसोमाय । दाशुषे ॥sam-iddhaḥ | agne | ā | vaha | devān | adya | yata-sruce | tantum | tanuṣva | pūrvyam | suta-somāya | dāśuṣe