Sukta 1.142
अवसृजन्नुप त्मना देवान्यक्षि वनस्पते । अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥
अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते । अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥
ava-sṛjánn úpa tmanā́ devā́n yakṣi vanáspate | agnír havyā́ suṣū́dati devó devéṣu médhiraḥ ||
Releasing and setting forth by your own being, O Lord of the Wood, offer to the gods; for Agni, the god wise among the gods, prepares and perfects the oblations, cooking them into a fit substance for the higher powers within us.
अ॒व॒ऽसृ॒जन् । उप॑ । त्मना॑ । दे॒वान् । य॒क्षि॒ । व॒न॒स्प॒ते॒ । अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः ॥अवसृजन् । उप । त्मना । देवान् । यक्षि । वनस्पते । अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः ॥ava-sṛjan | upa | tmanā | devān | yakṣi | vanaspate | agniḥ | havyā | susūdat i | devaḥ | deveṣu | medhiraḥ