Sukta 1.142
तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना । त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥
तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ । त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥
tán nas turī́pam ádbhutaṃ purú vā́raṃ purú tmanā́ | tváṣṭā póṣāya ví ṣyatu rāyé nā́bhā no asma-yúḥ ||
May that wondrous, swift-helping power become for us a manifold shelter, abundant by its own being; may Tvaṣṭṛ spread it out for our increase, and by this navel of plenitude bind us to the spiritual riches, not turning away from us.
तत् । नः॒ । तु॒रीप॑म् । अद्भु॑तम् । पु॒रु । वा॒ । अर॑म् । त्मना॑ । त्वष्टा॑ । पोषा॑य । वि । स्य॒तु॒ । रा॒ये । नाभा॑ । नः॒ । अ॒स्म॒ऽयुः ॥तत् । नः । तुरीपम् । अद्भुतम् । पुरु । वा । अरम् । त्मना । त्वष्टा । पोषाय । वि । स्यतु । राये । नाभा । नः । अस्मयुः ॥tat | naḥ | turīpam | adbhutam | puru | vā | aram | tmanā | tvaṣṭā | poṣāya | vi | syatu | rāye | nābhā | naḥ | asma-yuḥ