Sukta 1.141
त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥
त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा॑श॒द्रे अ॑र्य॒मा सु॒दान॑वः । यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा॑ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा॑यथाः ॥
tváyā hí agne váruṇo dhṛtá-vrato mitráḥ śāśadré aryamā́ su-dā́navaḥ | yát sīm ánu krátunā viśváthā vi-bhúr arā́n ná némíḥ parí-bhū́r ajā́yathāḥ ||
With you, O Agni, Varuṇa of firm law, Mitra, and Aryaman of good giving attain their fullness; for you are born all-pervading through the worlds by the power of will, encompassing them as the rim encompasses the spokes.
त्वया॑ । हि । अ॒ग्ने॒ । वरु॑णः । धृ॒तऽव्र॑तः । मि॒त्रः । शा॒श॒द्रे । अ॒र्य॒मा । सु॒ऽदान॑वः । यत् । सी॒म् । अनु॑ । क्रतु॑ना । वि॒श्वऽथा॑ । वि॒ऽभुः । अ॒रान् । न । ने॒मिः । प॒रि॒ऽभूः । अजा॑यथाः ॥त्वया । हि । अग्ने । वरुणः । धृतव्रतः । मित्रः । शाशद्रे । अर्यमा । सुदानवः । यत् । सीम् । अनु । क्रतुना । विश्वथा । विभुः । अरान् । न । नेमिः । परिभूः । अजायथाः ॥tvayā | hi | agne | varuṇaḥ | dhṛta-vrataḥ | mitraḥ | śāśadre | aryamā | su-dānavaḥ | yat | sīm | anu | kratunā | viśva-thā | vi-bhuḥ | arān | na | nemiḥ | pari-bhūḥ | ajāyathāḥ