Sukta 1.141
रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते । आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥
रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे॑भिररु॒षेभि॑रीयते । आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रय॒: शूर॑स्येव त्वे॒षथा॑दीषते॒ वय॑: ॥
rátho ná yā́taḥ śíkva-bhiḥ kṛtó dyā́m áṅgebhir aruṣébhir īyate | ā́d asya te kṛṣṇā́so dhákṣi sū́rayaḥ śū́rasyeva tveṣáthād īṣate váyaḥ ||
Like a chariot set in motion by the wise, he goes to heaven with his ruddy limbs. Then, O kindler, the seers—though still darkened—yearn for your winged force, as warriors for the surge of a hero’s onset.
रथः॑ । न । या॒तः । शिक्व॑ऽभिः । कृ॒तः । द्याम् । अङ्गे॑भिः । अ॒रु॒षेभिः॑ । ई॒य॒ते॒ । आत् । अ॒स्य॒ । ते । कृ॒ष्णासः॑ । ध॒क्षि॒ । सू॒रयः॑ । शूर॑स्यऽइव । त्वे॒षथा॑त् । ई॒ष॒ते॒ । वयः॑ ॥रथः । न । यातः । शिक्वभिः । कृतः । द्याम् । अङ्गेभिः । अरुषेभिः । ईयते । आत् । अस्य । ते । कृष्णासः । धक्षि । सूरयः । शूरस्यइव । त्वेषथात् । ईषते । वयः ॥rathaḥ | na | yātaḥ | śikva-bhiḥ | kṛtaḥ | dyām | aṅgebhiḥ | aruṣebhiḥ | īyate | āt | asya | te | kṛṣṇāsaḥ | dhakṣi | sūrayaḥ | śūrasya-iva | tveṣathāt | īṣate | vayaḥ